________________
अर्जुन उवाच
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥८.१॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ ८.२ ॥
ॐ ते ब्रह्म तद्विदुरित्युक्तस्य' (७.२९) प्रयाणकालेऽपि च मां विदुरित्युक्तस्य' (७.३० ) च व्याख्यानमंत्र प्राधान्येन क्रियते । तत्प्रसङ्गादंतकालस्मरणफलं तदुपायप्रकारो ब्रह्मप्राप्ति- मार्गश्चात्रोच्यत इति पूर्वानंतर्यमध्यायभेदः स्वस्मिन्नेकवाक्यता च । स्मरणविषयत्वप्राप्यत्वरूपो महिमैव वर्ण्यत इति षट्कांतर्भावश्च ज्ञेयः । पूर्वत्र तद्ब्रह्म विदुरिति परोक्षनिर्देशेन ब्रह्म भगवतः अन्यदिति प्रतीयते । तथा साधिभूतं साधिदैवं साधियज्ञं मां च विदुरिति योजनया भगवज्ज्ञानाद्ब्रह्मज्ञानमन्यदिति प्रतीयते । 'वासुदेवात्मकं ब्रह्म' (व्यासस्मृ.) इत्यादौ भगवानेव ब्रह्मेति प्रतीयते । अतो विप्रतिपत्त्या जातसंशयात्पृच्छति ॥ किं तद्ब्रह्मेति । अत्राद्यश्लोके किमिति स्वरूपप्रश्नः । द्वितीये कथमिति प्रकारप्रश्नः । अधिगतो यज्ञमधियज्ञ इति प्रादिसमासो नाव्ययीभावः । अत्र देहे अधियज्ञः कथमित्यर्थः । अस्मिन् देहे अधियज्ञः क इति स्वरूपप्रश्नः । अस्मिन्देह इति पदद्वयकृत्यं परिहारवाक्ये वक्ष्यामः । अंतकाले किमर्थं कथंभूतः केन प्रकारेण स्मर्तव्य इत्यर्थः ॥ ८.१ ॥ ८.२ ॥
श्रीभगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ ८.३ ॥
१